Pages

Sunday, June 05, 2016

मा निषाद प्रतिष्ठां ……



मा निषाद प्रतिष्ठां त्वमगमः शाश्वतीः समाः । 
यत्क्रौञ्चमिथुनादेकमवधीः  काममोहितम् ।। (वा ० रा ० १.२.१५)

आदिकाव्ये वाल्मीकिरामायणे अयं श्लोकः रामायणरचनाहेतुत्वेन लोकविश्रुतः ।  उत्तररामचरिते अयं श्लोकः आत्रेयीवचसा उल्लिखितः कविना भवभूतिना । उत्तररामचरितस्य रमाकान्तत्रिपाठीवर्येण कृतात् रमाख्यव्याख्यानात् अस्य श्लोकस्य व्याख्यानभागः सहृदयानामुपयोगाय यथातथम् अत्र स्थाप्यते । 

हे निषाद = व्याध ! त्वं शाश्वतीः समाः = त्वम् अनन्तवर्षाणि, प्रतिष्ठां = स्थितिम् (शान्तिं), मा अगमः = न प्राप्नुहि । यत् = यतः , क्रौञ्चमिथुनात् = क्रौञ्चपक्षिद्वन्द्वात्, काममोहितं = कामसक्तचेतसम्, एकं = पुमांसम्, अवधीः = हतवानसि । 

यद्वा - श्लोकोऽयं रामायणस्य बीजभूतत्वेन व्याख्यायते । तथाहि

(१) मा लक्ष्मीः निषीदति अस्मिन्निति घञ् । मा निषाद ! लक्षीपते ! राम ! भगवतः रामस्य विष्णोरंशभूतत्वात् सीतायाश्च लक्ष्मीरूपत्वादिति भावः । यत् यस्मात् त्वं क्रौञ्चमिथुनात् मन्दोदरीरावणरूपात् राक्षसद्वन्द्वात् काममोहितम् एकं रावणम् अवधीः हतवानसि, तस्मात् शाश्वतीः समाः वत्सरान् यावत्संसारमिति भावः, प्रतिष्ठां नित्यसुखाभिव्यक्तिसमयाखण्डानन्दमित्यर्थः, अगमः = लभस्व । 

अथवा …

(२) हे अनिषाद ! निषादसदृश ! क्रौञ्चमिथुनादिति सङ्केतेन तारावालिनोः सूचना । भ्रातृपत्न्यां रुमायां रममाणत्वात् तस्य काममोहितत्वं वेदितव्यम् । 

अपरञ्च …

(३) नितरां सादयति ध्वंसयति लोकानिति निषादः रावणः, तत्सम्बुद्धौ हे निषाद ! रावण ! यत् यस्मात् त्वं क्रौञ्चमिथुनात् अल्पीभावार्थात् क्रुञ्चतेः पचाद्यचि क्रुञ्चः ततः स्वार्थे अण् प्रत्ययेन क्रौञ्चः इति सिद्धः, तयोर्मिथुनं तस्मात् राज्यक्षयवनवासादिदुःखेन परं कार्श्यं गतात् स्त्रीपुंसयुगलात् सीतारामरूपादित्यर्थः, एकं काममोहितं पतिरतं स्त्रीजनं सीतामित्यर्थः, अवधीः हरणादिना वधतुल्यमतिघोरदुःखं प्रापितवानसि, तस्मात् त्वं शाश्वतीः समाः प्रतिष्ठां स्वस्त्रीसाहित्येनेहलोकस्थितिमित्यर्थः, मा अगमः मा प्राप्नुहि, अचिरेण स्त्रिया वियुज्य म्रियस्वेति काव्यार्थः सूचितः । यथा भगवान् रामभद्रः त्वया सीताविरहितः कृतः, सा च सती रामं विना कृता, तथा त्वमपि स्वभार्यया विरहितो भव, सा च त्वया विरहिता चिरं वियोगशोकार्त्ता भूयादिति तु निर्गलितार्थः । 

अत्र करुणो रसः, आलम्बनविभावः क्रौञ्चः, तस्य च निषादकृतवधः उद्दीपनविभावः, महर्षेराक्रन्दितञ्च अनुभावः, विषादचिन्तादयश्च व्यभिचारिणः, एतैश्चायं रसः परिपोषत्वमगात् इति । तथा हि ध्वनिकारः -
   'काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । 
   क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः ।। '

No comments:

Post a Comment